ऋकारान्तस्य अङ्गस्य अकृद्यकारे असार्वधातुके यकारे च्वौ च परतो रीङित्ययम् आदेशो भवति। मात्रीयति। मात्रीयते। पित्रीयति। पित्रीयते। चेक्रीयते। मात्रीभूतः। क्ङिति इत्येतन् निवृत्तम्, तेन इह अपि भवति, पितुरागतं पित्र्यम्। ऋत इति तपरकरणं किम्? चेकीर्यते। निजेगिल्यते।
अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। यस्येति च। पित्र्यम्। उषस्यम्॥
यिग्रहणमनुवत्र्तते, अकृत्सार्वधातुकयोरिति च। "मात्रीयति" इति। "सुप आत्मनः क्यच्()"
३।१।८। "पित्रीयते" इति। "कर्त्तुः क्यङ् सलोपश्च"
३।१।११ इति क्यङ्()। "चेक्रीयते" इति। करोतेर्यङ्()। "पित्र्यम्()" इति। "पितुर्यच्च"
४।३।७९ इति यत्प्रत्ययः; रीङादेशे कृते "यस्येति च"
६।४।१४८ इतीकारलोपः।
कथं पुनः क्ङितोत्युचयमाने तत्रादेशो भवति? इत्याह--"क्ङितीत्येतदिह निवृत्तम्()" इति। यद्येवं यिग्रहणस्यापि निवृत्तिः प्राप्नोति,
तदेकयोगनिर्दिष्टत्वात्()? नैतदस्ति; स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः। इह च यिग्रहणस्यैव स्वरितत्वं प्रतिज्ञायत इति तदेवानुवत्र्तते, क्ङिद्ग्रहणस्य स्वरितत्वं न प्रतिज्ञायत इति न तदिहानुवत्र्तते।
"चेकीर्यते" इति। "कृ विक्षेपे" (धा।पा।१४०९), "ऋत इद्धातोः"
७।१।१०० इतीत्त्वे रपरत्वम्()। "हलि च"
८।२।७७ इति दीर्घः। "निजेगिल्यते" इति।
"गृ? निगरणे" (धा।पा।१४१०), "लुपसद"
३।१।२४ इत्यादिना यङ्(), "यो यङि"
८।२।२० इति लत्वं रेफस्य। अथ दीर्घग्रहणं किमर्थम्(), न रिङित्येवोच्येत, "अकृत्सार्वधातुकयोः"
७।४।२५ इतिदीर्घत्वेनैव सिद्धमिति, तत्राप्ययमर्थः--उत्तरसूत्रे पुना रिङ्ग्रहणं न कत्र्तव्यं भवति,
एतदेव हि तत्रानुवर्त्तिष्यते? न सिध्यति; नाप्राप्ते दीर्घत्वे रिङारभ्यमाणस्तस्य बाधकः स्यात्()। भवतु नाम ऋकारस्य यो दीर्घस्तस्य बाधकः, यस्तु कृत आदेशे स्थान्यन्तरस्य प्राप्नोति तस्य कथं बाधकः,
न ह्रस्मिन्? प्राप्ते रिङारभ्यते? एवं तर्हि मन्दधियां सुखप्रतिपत्त्यर्थ दीर्घोच्चारणम्()। ङकारोऽन्त्यादेशार्थः॥
रीङृतः। अङ्गस्येत्यधिकृतम् ऋता विशेष्यते। तदन्तविधिः। "अयङ् यि क्ङिती"त्यतो यीत्यनुवर्तते। "अकृत्सार्वधातुकयो"रित्यतोऽकृत्सार्वधातुकयोरिति, "च्वौ चे"ति सूत्रं च, तदाह--अकृदित्यादिना। पित्र्यमिति। पितरो देवता अस्येति विग्रहः। यति पितृशब्दस्य रीङ्। "ङिच्चे"त्यन्तादेशः। "यस्येति चेति ईकारलोपः। क्यचि पित्रीयतीत्यादौ "अङ्गकार्ये कृते पुनर्नाङ्गकार्य"मिति वचनात् "अकृत्सार्वदातुकयो"रिति दीर्घे अप्राप्ते ईकारोच्चारणम्। उषस्यमिति। उषः देवता अस्येति विग्रहः। भत्वेन पदत्वाऽभावात्सकारस्य न रुत्वादि। द्यावापृथिवी। द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध-एतेभ्यः-छो यच्च स्यादित्यर्थः। अणः, पत्युत्तरपदण्यस्य चापवादः।